Search This Blog

Saturday, February 5, 2011

सङ्कटनाशनगणेशस्तोत्रम्


नारद उवाच
प्रणम्य शिरसा देवं गौरीपुत्रँविनायकम् ।
भक्तावासं स्मरेन्नित्यम् आयुःकामार्थसिद्धये ।।१।।
प्रथमँवक्रतुण्डञ्च एकदन्तन्द्वितीयकम् ।
तृतीयङ्कृष्णपिङ्काक्षं गजवक्त्रञ्चतुर्थकम् ।।२।।
लम्बोदरं पञ्चमञ्च षष्ठँविकटमेव च ।
सप्तमँविघ्नराजञ्च धूम्रवर्णन्तथाष्टमम् ।।३।।
       नवमं भालचन्द्रञ्च दशमन्तु विनायकम् ।
       एकादशङ्गणपतिं द्वादशन्तु गजाननम् ।।४।।
द्वादशैतानि नामानि त्रिसन्ध्यँयः पठेन्नरः ।
न च विघ्नभयन्तस्य सर्वसिद्धिकरं प्रभो ।।५।।
       विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
       पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ।।६।।
जपेद्गणपतिस्तोत्रं षड्भिर्मासैःफलँलभेत् ।
सँवत्सरेण सिद्धिञ्च लभते नात्र संशयः ।।७।।
अष्टभ्यो ब्राम्हणेभ्यश्च लिखित्वा यस्समर्पयेत् ।
       तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः ।।८।।
इति श्री नारदपुराणे सङ्कटनाशनगणेशस्तोत्रं सम्पूर्णम्।

3 comments: